Песня из фильма “Titanic“ на санскрите. Исполняет О. Горностаева, перевод на санскрит У. Санка

रात्रीषु स्वप्नेषु त्वामीक्षे विभवामि च तेन जाने भवदीयास्तित्वं आवयोः मध्ये दूराण्यतिक्राम्य आगतोऽसि वक्तुं त्वमसीति दूरे वान्तिके यत्रासि क्वचित् मन्येहं मे हृदयं स्पन्देत् एकवारं पुनरुद्घाटय द्वारम् त्वमसि मे हृदये हृन्मे अश्रान्तं स्पन्देत् प्रेम सकृन्नः स्पृश्यात् तत्तिष्ठेच्चाजीवनं यावन्न परासू न क्षीयात् त्वयि रागश्च रागः तं धरामि सदाहं जीवने मे आवां स्थिराः दूरे वान्तिके यत्रासि क्वचित् मन्येहं मे हृदयं स्पन्देत् एकवारं पुनरुद्घाटय द्वारम् त्वमसि मे हृदये हृन्मेनवरतं स्पन्देत् अत्रासि त्वं, नास्ति मे भयं जानेहं हृन्मे सततं चलेत् जीवाव एवं शाश्वतिकं कालं हृदि मे त्वं सुस्थः हृन्मेविरतं चलेत्
Back to Top